(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।
॥ श्रीः ॥
3.196. अध्यायः 196
Mahabharata - Vana Parva - Chapter Topics
मार्कण्डेयेन सुखदुःखनिरूपकबकशक्रसंवादानुवाः ॥ 1 ॥
Mahabharata - Vana Parva - Chapter Text
वैशम्पायन उवाच। 3-196-0x(2421)(23683)
मार्कण्डेयमृषयो ब्राह्मणा युधिष्ठिरश्च।
पर्यपृच्छन्नृषिः केन दीर्घायुरासीद्बकः ॥ 3-196-1(23684)
मार्कण्डेयस्तु तान्सर्वान्प्रत्युवाच महातपाः।
दीर्घायुश्च बकोराजन्नृषिर्नात्र विचारणा ॥ 3-196-2(23685)
एतच्छ्रुत्वा तु कौन्तेयो भ्रातृभिः सह भारत।
मार्कण्डेयं पर्यपृच्छद्धर्मराजो युधिष्ठिरः ॥ 3-196-3(23686)
बकदाल्भ्यौ महात्मानौ श्रूयेते चिरजीविनौ।
सखायौ देवराजस् यतावृषी लोकसंमतौ ॥ 3-196-4(23687)
एतदिच्छामि भगवन्बकशक्रसमागमम्।
सुखदुःखसमायुक्तं तत्त्वेन कथितं त्वया ॥ 3-196-5(23688)
मार्कण्डेय उवाच। 3-196-6x(2422)
वृत्ते देवासुरे राजन्संग्रामे रोमहर्षणे।
त्रयाणामपि लोकानामिन्द्रो लोकाधिपोऽभवत् ॥ 3-196-6(23689)
सम्यग्वर्षति पर्जन्ये सस्यसंपद उत्तमाः।
निरामयाः सुधर्मिष्ठाः प्रजा धर्मपरायणाः।
मुदितश्च जनः सर्वः स्वधर्मेषु व्यवस्थितः ॥ 3-196-7(23690)
ताः प्रजा मुदिताः सर्वा दृष्ट्रा बलनिषूदनः।
ततस्तु मुदितोराजन्देवराजः शतक्रतुः ॥ 3-196-8(23691)
ऐरावतं समास्थाय अपश्यन्मुदिताः प्रजाः।
आश्रमांश्च विचित्रांश् नदीश्च विविधाः शुभाः ॥ 3-196-9(23692)
नगराणि समृद्धानि घेटाञ्जनपदांस्तथा।
प्रजापालनदक्षांश्च नरेन्द्रान्धर्मचारिणः ॥ 3-196-10(23693)
उदपानं प्रपा वापी तटाकानि सरांसि च।
नानाब्रह्रह्मसमाचारैः सेवितानि द्विजोततमैः ॥ 3-196-11(23694)
ततोऽवतीर्य रम्यायां पृथ्व्यां राजञ्छतक्रतुः।
तत्र रम्ये शिवे देशे बहुवृक्षसमाकुले ॥ 3-196-12(23695)
पूर्वस्यां दिशि रम्यायां समुद्राभ्याशतो नृप।
तत्राश्रमपदं रम्यं मृगद्विजनिषेवितम्।
तत्राश्रमपदे रम्ये बकं पश्यति देवराट् ॥ 3-196-13(23696)
बकस्तु दृष्ट्वा देवेन्द्रं दृढं प्रीतमनाऽभवत्।
पाद्यासनार्थदानेन फलमूलैरथार्चयत् ॥ 3-196-14(23697)
सुखोपविष्टो वरदस्ततस्तु बलसूदनः।
ततः प्रश्नं बकं देवं उवाच त्रिदशेश्वरः ॥ 3-196-15(23698)
शतं वर्षसहस्राणि मुने जातस्य तेऽनघ।
समाख्याहि मम ब्रह्मन्किं दुःखं चिरजीविनाम् ॥ 3-196-16(23699)
बक उवाच। 3-196-17x(2423)
अप्रियैः सह संवासः प्रियैश्चापि विनाभवः।
असद्भिः संप्रयोगश्च तद्दुःखं चिरजीविनाम् ॥ 3-196-17(23700)
पुत्रदारविनाशोऽत्र ज्ञातीनां सुहृदामपि।
परेष्वायत्तता कृच्छ्रं किंनु दुःखतरं ततः ॥ 3-196-18(23701)
नान्यद्दुःखतरं किंचिल्लोकेषु प्रतिभाति मे।
अर्थैर्विहीनः पुरुषः एरैः संपरिभूयते ॥ 3-196-19(23702)
अकुलानां कुले भावं कुलीनानां कुलक्षयम्।
संयोगं विप्रयोगं च पश्यन्ति चिरजीविनः ॥ 3-196-20(23703)
अपिप्रत्यक्षमेवैतत्तव देघ शतक्रतो।
अकुलानां समृद्धानां कथं कुलविपर्ययः ॥ 3-196-21(23704)
देवदानवगन्धर्वमनुष्योरगराक्षसाः।
प्राप्नुवन्ति विपर्यासं किंनु दुःखतरं ततः ॥ 3-196-22(23705)
कुले जाताश् क्लिश्यन्ते दौष्कुलेयवशानुगाः।
आढ्यैर्दरिद्राऽवमताः किंनु दुःखतरं ततः ॥ 3-196-23(23706)
लोके वैधर्म्यमेतत्तु दृश्ते बहुविस्तरम्।
हीनज्ञानाश्च हृष्यन्ते क्लिश्यन्ते प्राज्ञकोविदाः।
बहुदुःखपरिक्लेशं मानुष्यमिह दृश्यते ॥ 3-196-24(23707)
इन्द्र उवाच। 3-196-25x(2424)
पुनरेव महाभाग देवर्षिगणसेवित।
समाख्याहि मम ब्रह्मन्किं सुखं चिरजीविनाम् ॥ 3-196-25(23708)
बक उवाच। 3-196-26x(2425)
अष्टमे द्वादशे वाऽपि शाकं यः पचते गृहे।
कुमित्राण्यनपाश्रित् किं वै सुखतरं ततः ॥ 3-196-26(23709)
यत्राहानि न गण्यन्ते नैनमाहुर्महाशनम्।
अपि शाकं पचानस्य सुखं वै मघवन्गृहे ॥ 3-196-27(23710)
आर्जितं स्वेन वीर्येण नाप्यपाश्रित्य कंचन।
फलशाकमपि श्रेयो भोक्तुं ह्यकृपणं गृहे ॥ 3-196-28(23711)
परस्य तु गृहे भोक्तुः परिभूतस् नित्यशः।
सुमृष्टमपि न श्रेयो विकल्पोऽयमतः सताम् ॥ 3-196-29(23712)
श्ववद्धि लोलुपो यस्तु परान्नं भोक्तुमिच्छति।
धिगस्तु तस्य तद्भुक्तं कृपणस् दुरात्मनः ॥ 3-196-30(23713)
यो दत्त्वाऽतिथिभृत्येभ्यः पितृभ्यश्च द्विजोत्तमः।
शिष्टान्यन्नानि यो भुङ्क्ते किं वै सुखतरं ततः ॥ 3-196-31(23714)
अतो मृष्टतरं नान्यत्पूतं किंचितच्छतक्रतो।
दत्त्वा यस्त्वतिथिभ्योऽन्नं भुङ्क्ते तेनैव नित्यशः ॥ 3-196-32(23715)
तावतां गोसहस्राणां फलं प्राप्नोति दायकः।
यदेनो यौवनकृतंतत्सर्वं नश्यते ध्रुवम् ॥ 3-196-33(23716)
रसदक्षिणस् भुक्तस् द्विजस्य तु करे गतम्।
यद्वारि वारिणा सिञ्चेत्तद्ध्येनस्तरते क्षणात् ॥ 3-196-34(23717)
एताश्चान्याश्च वै बह्वीः कथयित्वा कथाः शुभाः।
बकेन सह देवेन्द्र आपृच्छ्य त्रिदिवं गतः ॥ 3-196-35(23718)
इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि षणअणवत्यधिकशततमोऽध्यायः ॥ 196 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-196-1 ऋषिर्बकः किल भवतो दीर्घायुरासीच्चेति ध. पाठः ॥ 3-196-12 यह्नोत्सववतीं रम्यां पृध्वीं राजञ्शतक्रतुरिति ध. पाठः ॥ 3-196-21 आकुलानां समृद्धानां कथं कालविपर्ययः इति ध. पाठः ॥ 3-196-34 द्विजस्य तु करे हुतमिति ध. पाठः ॥
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.